|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.129. अध्यायः 129
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति गोलोकस्य देवलोकस्य देवलोकादप्युपरितनत्वे निमित्तप्रतिपादकब्रह्मशक्रसंवादानुवादः॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
ये च गाः सम्प्रयच्छन्ति हुतशिष्टाशिनश्च ये।
तेषां सत्राणि यज्ञाश्च नित्यमेव युधिष्ठिर॥ 13-129-1(86301)
ऋते दधिघृतेनेह न यज्ञः सम्प्रवर्तते।
तेन यज्ञस्य यज्ञत्वमतो मूलं च लक्ष्यते॥ 13-129-2(86302)
दानानामपि सर्वेषां गवां दानं प्रशस्यते।
गावः श्रेष्ठाः पवित्राश्च पावनं ह्येतदुत्तमम्॥ 13-129-3(86303)
पुष्ट्यर्थमेताः सेवेत शान्त्यर्थमपि चैव ह।
पयो दधि घृतं चासां सर्वपापप्रमोचनम्॥ 13-129-4(86304)
गावस्तेजः परं प्रोक्तमिह लोके परत्र च।
न गोभ्यः परमं किञ्चित्पवित्रं भरतर्षभ॥ 13-129-5(86305)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
पितामहस्य संवादमिन्द्रस्य च युधिष्ठिर॥ 13-129-6(86306)
पराभूतेषु दैत्येषु शक्रस्त्रिभुवनेश्वरः।
प्रजाः समुदिताः सर्वाः सत्यधर्मपरायणाः॥ 13-129-7(86307)
अथर्षयः सगन्धर्वाः किन्नरोरगराक्षसाः।
देवासुरसुपर्णाश्च प्रजानां पतयस्तथा।
पर्युपासत कौन्तेय कदाचिद्वै पितामहम्॥ 13-129-8(86308)
नारदः पर्वतश्चैव विश्वावसुहहाहुहूः।
दिव्यतानेषु गायन्तः पर्युपासत तं प्रभुम्॥ 13-129-9(86309)
तत्र दिव्यानि पुष्पाणि प्रावहत्पवनस्तदा।
आजह्रुर्ऋतवश्चापि सुगन्धीनि पृथक्पृथक्॥ 13-129-10(86310)
तस्मिन्देवसमावाये सर्वभूतसमागमे।
दिव्यवादित्रसंघुष्टे दिव्यस्त्रीचारणावृते।
इन्द्रः पप्रच्छ देवेशमभिवाद्य प्रणम्य च॥ 13-129-11(86311)
देवानां भगवन्कस्माल्लोकेशानां पितामह।
उपरिष्ठाद्गवां लोक एतदिच्छामि वेदितुम्॥ 13-129-12(86312)
किं तपो ब्रह्मचर्यं वा गोभिः कृतमिहेश्वर॥
देवानामुपरिष्टाद्यद्वसन्त्यरजसः सुखम्॥ 13-129-13(86313)
ततः प्रोवाच ब्रह्मा तं शक्रं बलनिषूदनम्।
अवज्ञातास्त्वया नित्यं गावो बलनिषूदन॥ 13-129-14(86314)
तेन त्वमासां माहात्म्यं न वेत्सि शृणु यत्प्रभो।
गवां प्रभावं परमं माहात्म्यं च सुरर्षभ॥ 13-129-15(86315)
यज्ञाङ्गं कथिता गावो यज्ञ एव च वासव।
एताभिश्च विना विज्ञो न वर्तेत कथञ्चन॥ 13-129-16(86316)
धारयन्ति प्रजाश्चैताः पयसा हविषा तथा।
एतासां तनयाश्चापि कृषियोगमुपासते॥ 13-129-17(86317)
जनयन्ति च धान्यानि बीजानि विविधानि च।
ततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः॥ 13-129-18(86318)
पयो दधि घृतं चैव पुण्याश्चैताः सुराधिप।
वहन्ति विविधान्भोगान्क्षुत्तृष्णापरिपीडिताः॥ 13-129-19(86319)
मुनींश्च धारयन्तीह प्रजाश्चैवापि कर्मणा।
वासवाऽकूटवाहिन्यः कर्मणा सुकृतेन च॥ 13-129-20(86320)
उपरिष्टात्ततोऽस्माकं वसन्त्येताः सदैव हि।
एतत्ते कारणं शक्र निवासकृतमध्य वै।
गावो देवोपरिष्टाद्धि समाख्याताः शतक्रतो॥ 13-129-21(86321)
एता हि वरदत्ताश्च वरदाश्चापि वासव।
सुरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः॥ 13-129-22(86322)
यदर्थं गां गताश्चैव सुरभ्यः सुरसत्तम।
तच्च मे शृणु कार्स्न्येन वदतो बलसूदन॥ 13-129-23(86323)
पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसु।
त्रीँल्लोकाननुशासत्सु विष्णौ गर्भत्वमागते॥ 13-129-24(86324)
अदित्यां तप्यमानायां तपो घोरं सुदुश्चरम्।
पुत्रार्थममरश्रेष्ठ पादेनैकेन नित्यदा॥ 13-129-25(86325)
तां तु दृष्ट्वा महादेवीं तप्यमानां महत्तपः।
दक्षस्य दुहिता देवी सुरभिर्नाम नामतः॥ 13-129-26(86326)
अतप्यत तपो घोरं हृष्टा धर्मपरायणा।
कैलासशिखरे रम्ये देवगन्धर्वसेविते॥ 13-129-27(86327)
व्यतिष्ठदेकपादेन परमं योगमास्थिता।
दशवर्षसहस्राणि दशवर्षशतानि च॥ 13-129-28(86328)
सन्तप्तास्तपसा तस्या देवाः सर्षिमहोरगाः।
तत्र गत्वा मया सार्धं पर्युपासत तां शुभां॥ 13-129-29(86329)
अथाहमब्रवं तत्र देवीं तां तपसाऽन्विताम्।
किमर्थं तप्यसे देवि तपो घोरमनिन्दिते॥ 13-129-30(86330)
प्रीतस्तेऽहं महाभागो तपसाऽनेन शोभने।
वरयस्व वरं देवि दातास्मीति पुरन्दर॥ 13-129-31(86331)
सुरभिरुवाच। 13-129-32x(7167)
वरेण भगवन्मह्यं कृतं लोकपितामह।
एष एव वरो मेऽद्य यत्प्रीतोसि ममानघ॥ 13-129-32(86332)
ब्रह्मोवाच। 13-129-33x(7168)
तामेव ब्रुवतीं देवीं सुरभिं त्रिदशेश्वर।
प्रत्यब्रवं यद्देवेन्द्र तन्निबोध शचीपते॥ 13-129-33(86333)
अलोभकाम्यया देवि तपसा शुचिना च ते।
प्रसन्नोऽहं वरं तस्मादमरत्वं दादामि ते॥ 13-129-34(86334)
त्रयाणामपि लोकानामुपरिष्टान्निवत्स्यसि।
मत्प्रसादाच्च विख्यातो गोलोकः सम्भविष्यति॥ 13-129-35(86335)
मानुषेषु च कुर्वाणाः प्रजाः कर्म शुभास्तव।
निवत्स्यन्ति महाभागो सर्वा दुहितरश्च ते॥ 13-129-36(86336)
मनसा चिन्तिता भोगास्त्वया वै दिव्यमानुषाः।
यच्च स्वर्गसुखं देवि तत्ते सम्पत्स्यते शुभे॥ 13-129-37(86337)
तस्या लोकाः सहस्राक्ष सर्वकामसमन्विताः।
न तत्र क्रमते मृत्युर्न जरा न च पावकः।
न दैन्यं नाशुभं किञ्चिद्विद्यते तत्र वासव॥ 13-129-38(86338)
तत्र दिव्यान्यरण्यानि दिव्यानि भवनानि च।
विमानानि सुयुक्तानि कामगानि च वासव॥ 13-129-39(86339)
ब्रह्मचर्येण तपसा सत्येन च दमेन च।
दानैश्च विविधैः पुण्यैस्तथा तीर्थानुसेवनात्॥ 13-129-40(86340)
तपसा महता चैव सुकृतेन च कर्मणा।
शक्यः समासादयितुं गोलोकः पुष्करेक्षण॥ 13-129-41(86341)
एतत्ते सर्वमाख्यातं मया शक्रानुपृच्छते।
न ते परिभवः कार्यो गवामसुरसूदन॥ 13-129-42(86342)
भीष्म उवाच। 13-129-43x(7169)
एतच्छ्रुत्वा सहस्राक्षः पूजयामास नित्यदा।
गाश्चक्रे बहुमानं च तासु नित्यं युधिष्ठिर॥ 13-129-43(86343)
एतत्ते सर्वमाख्यातं पावनं च महाद्युते।
पवित्रं परमं चापि गवां माहात्म्यमुत्तमम्। 13-129-44(86344)
कीर्तितं पुरुषव्याघ्र सर्वपापविमोचनम्।
य इदं कथयेन्नित्यं ब्राह्मणेभ्यः समाहितः॥ 13-129-45(86345)
हव्यकव्येषु यज्ञेषु पितृकार्येषु चैव ह।
सार्वकामिकमक्षय्यं पितॄंस्तस्योपतिष्ठते॥ 13-129-46(86346)
गोषु भक्तश्च लभते यद्यदिच्छति मानवः।
स्त्रियोपि भक्ता या गोषु ताश्च काममवाप्नुयुः॥ 13-129-47(86347)
पुत्रार्थीं लभते पुत्रं कन्यार्थी तामवाप्नुयात्।
धनार्थी लभते वित्तं धर्मार्थी धर्ममाप्नुयात्॥ 13-129-48(86348)
विद्यार्थी चाप्नुयाद्विद्यां सुखार्थी प्राप्नुयात्सुखम्।
न किञ्चिद्दुर्लभं चैव गवां भक्तस्य भारत॥ ॥ 13-129-49(86349)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनत्रिंशदधिकशततमोऽध्यायः॥ 128 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-129-20 वासव अकूटवाहिन्यः अमायाव्यवहारिण्यः॥ 7-129-21 निवासार्थं कृतं निवासकृतम्॥ 7-129-48 कन्या पतिमवाप्नुयादिति क.थ.ध.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|